(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.19. अध्यायः 019
Mahabharata - Sabha Parva - Chapter Topics
पुनर्यदृच्छागतेन चण्डकौशिकेन जरासन्धपराक्रमादौ कथिते जरासन्धं राज्येऽभ िषिच्य तपोवनगतस्य सभार्यस्य बृहद्रथस्य स्वर्गगमनम्॥ 1॥ कृष्णेन कंसवधात् जरासन्धस्य स्वस्मिन्वैरोदयकथनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text

कृष्ण उवाच॥

कस्यचित्त्वथ कालस्य पुनरेव महातपाः।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः॥ 2-19-1(12076)
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः॥ 2-19-2(12077)
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्॥ 2-19-3(12078)
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना॥ 2-19-4(12079)
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति॥ 2-19-5(12080)
अस्य रूपं च सत्वं च बलमूर्जितमेव च।
एष श्रिया समुदितः पुत्रस्तव न संशयः॥ 2-19-6(12081)
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः॥ 2-19-7(12082)
पततो वैनतेयस्य गतिमन्ये यथा खगाः।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः॥ 2-19-8(12083)
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः॥ 2-19-9(12084)
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः॥ 2-19-10(12085)
एनमासाद्य राजानः समृद्धबलवाहनाः।
विनाशमुपयास्यन्ति शलभा इव पावकम्॥ 2-19-11(12086)
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः॥ 2-19-12(12087)
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः।
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम्॥ 2-19-13(12088)
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः॥ 2-19-14(12089)
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः॥ 2-19-15(12090)
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन्।
विसर्जयामास नृपं बृहद्रथमथारिहन्॥ 2-19-16(12091)
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा॥ 2-19-17(12092)
बृहद्रथो नरपतिः परां निर्वृतिमाययौ।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्॥ 2-19-18(12093)
ततो वनस्थे पितरि मातृभ्यां सह भारत।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे॥ 2-19-19(12094)
अथ दीर्घस्य कालस्य तपोवनचरो नृपः।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः॥ 2-19-20(12095)
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत्।
वरप्रदानमखिलं प्राप्य राज्यमपालयत्॥ 2-19-21(12096)
हते चैव मया कंसे सहंसडिभिके तदा।
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः।
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत॥ 2-19-22(12097)
भ्रामयित्वा शतगुणमेकोनं येन भारत।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्॥ 2-19-23(12098)
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः।
एकोनयोजनशते सा पपात गदा शुभा॥ 2-19-24(12099)
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता।
गदावसानं तत्ख्यातं मथुरायाः समीपतः॥ 2-19-25(12100)
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ॥ 2-19-26(12101)
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥ 2-19-27(12102)
एवमेष तदा वीर बलिभिः कुकुरान्धकैः।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः॥ ॥ 2-19-28(12103)

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकोनविंशोऽध्यायः॥ 19॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-19-16 आह्निकाय महातपाः इति घ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.