|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.19. अध्यायः 019
Mahabharata - Sabha Parva - Chapter Topics
पुनर्यदृच्छागतेन चण्डकौशिकेन जरासन्धपराक्रमादौ कथिते जरासन्धं राज्येऽभ िषिच्य तपोवनगतस्य सभार्यस्य बृहद्रथस्य स्वर्गगमनम्॥ 1॥ कृष्णेन कंसवधात् जरासन्धस्य स्वस्मिन्वैरोदयकथनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
कृष्ण उवाच॥
कस्यचित्त्वथ कालस्य पुनरेव महातपाः।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः॥ 2-19-1(12076)
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः॥ 2-19-2(12077)
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्॥ 2-19-3(12078)
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना॥ 2-19-4(12079)
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति॥ 2-19-5(12080)
अस्य रूपं च सत्वं च बलमूर्जितमेव च।
एष श्रिया समुदितः पुत्रस्तव न संशयः॥ 2-19-6(12081)
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः॥ 2-19-7(12082)
पततो वैनतेयस्य गतिमन्ये यथा खगाः।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः॥ 2-19-8(12083)
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः॥ 2-19-9(12084)
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः॥ 2-19-10(12085)
एनमासाद्य राजानः समृद्धबलवाहनाः।
विनाशमुपयास्यन्ति शलभा इव पावकम्॥ 2-19-11(12086)
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः॥ 2-19-12(12087)
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः।
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम्॥ 2-19-13(12088)
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः॥ 2-19-14(12089)
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः॥ 2-19-15(12090)
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन्।
विसर्जयामास नृपं बृहद्रथमथारिहन्॥ 2-19-16(12091)
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा॥ 2-19-17(12092)
बृहद्रथो नरपतिः परां निर्वृतिमाययौ।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्॥ 2-19-18(12093)
ततो वनस्थे पितरि मातृभ्यां सह भारत।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे॥ 2-19-19(12094)
अथ दीर्घस्य कालस्य तपोवनचरो नृपः।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः॥ 2-19-20(12095)
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत्।
वरप्रदानमखिलं प्राप्य राज्यमपालयत्॥ 2-19-21(12096)
हते चैव मया कंसे सहंसडिभिके तदा।
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः।
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत॥ 2-19-22(12097)
भ्रामयित्वा शतगुणमेकोनं येन भारत।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्॥ 2-19-23(12098)
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः।
एकोनयोजनशते सा पपात गदा शुभा॥ 2-19-24(12099)
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता।
गदावसानं तत्ख्यातं मथुरायाः समीपतः॥ 2-19-25(12100)
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ॥ 2-19-26(12101)
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥ 2-19-27(12102)
एवमेष तदा वीर बलिभिः कुकुरान्धकैः।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः॥ ॥ 2-19-28(12103)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकोनविंशोऽध्यायः॥ 19॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-19-16 आह्निकाय महातपाः इति घ. पाठः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|